________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 61 हृष्यन्ति परोपकार करणेषु / निघ्नन्ति प्रमादचौरबन्दं / बिभ्यति भवचक्रभ्रमणात् / जुग मन्ते विमार्गचारितां। रमन्ते नितिनगरौगमनमार्ग। उपहमन्ति विषयसुखगौलतां / उद्विजन्ते शैथिल्याचरणात्। शोचन्ति चिरन्तनदश्चरितानि / गर्हन्ते निजशौलस्वलितानि / निन्दन्ति भवचक्रनिवास / पाराधयन्ति जिनाज्ञायुवतिं / प्रतिसेवन्ते विविधशिक्षाललनां // तदेवं मर्वकार्याणि महामोहादिभूभुजाम् / एतेषु माम दृश्यन्ते जनेषु सुपरिस्फुटम् // तत्कथं भवता प्रोक्रमेवं मति ममाग्रतः / यथैते दूरतत्यक्ता महामोहादिशत्रुभिः // विमर्शनोदितं वत्म य एते भवतोदिताः / महामोहादयस्तेऽन्ये वत्मला जैनबान्धवाः // एते हि द्विविधा वत्स महामोहादयो मताः / एकेऽरयोऽत्र जन्न नामपरेऽतुलबान्धवाः // यतः। प्रथमा भवचक्रेऽत्र पातयन्ति सदा जनम् / अप्रशस्ततया तेषां प्रकृतिः खलु तादृशो // इतरे नितिं लोकं नयन्ति निकटे स्थिताः / प्रशस्तास्ते यतस्तेषां प्रकृतिः सापि तादृशौ // तदेते शत्रुभिस्त्यका बन्धुभिः परिवेष्टिताः / महामोहादिभिर्वत्म मोदन्ते जैनमज्जनाः // एवं च / For Private and Personal Use Only