________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / भवचके मया तुभ्यं दुलभं प्रतिपादितम् // इदं रत्नौघसंपूर्णमिदं सर्वसुखास्पदम् / इदमेव जगत्यत्र मारात्मारतरं मतम् // तदिदं ते ममासेन वर्णितं जनसत्पुरम् / अधुना येऽत्र वास्तव्या लोकास्तानवधारय / एते हि सततानन्दाः सर्वाबाधाविवर्जिताः / पुरप्रभावतो वत्म वर्तन्ते जैनसन्जनाः // प्रस्थिता नगरौं सर्वे निर्वृतिं कृतनिश्चयाः / पारात्पयाणकैः किंचिदमन्ति विबुधालये // वौर्य वौक्ष्य भयोद्धान्तैर्महामोहादिशत्रुभिः / एते जैना जना वत्स दूरतः परिवर्जिताः // प्रकर्षणोदितं / माम नैतदेवं / यतः यथैव ते मया दृष्टा भवचक्रनिवासिनः / महामोहादिभिर्यस्तास्तथैतेऽपि न संशयः / तथाह्येतेम्वपि जैनलोकेषु दृश्यन्ते सर्वाणि तत्कार्याणि / यस्मादेतेऽपि मूईन्ति भगवदिम्बेषु रज्यन्ते स्वाध्यायकरणेषु सिह्यन्ति साधर्मिकजनेषु प्रौयन्ने सदनुष्ठानेषु तुष्यन्ति गुरुदर्शनेषु दृश्यन्ति मदर्थोपलम्भेष द्विषन्ति व्रतातिचारकरणेषु क्रुध्यन्ति मामाारौविलोपेषु रुष्यन्ति प्रवचनप्रत्यनौकेषु माद्यन्ति कर्मनिर्जरणेषु अहंकुर्वन्ति प्रतिज्ञातनिर्वाहणेषु अवष्टम्नन्ति परौषहेषु स्मयन्ते दिव्याधुपसर्गेषु गृहयन्ति प्रवचनमालिन्यं वञ्चयन्नौन्द्रियधूर्तगणं लुभ्यन्ति तपश्चरणेषु ग्टध्यन्ति वैयावृत्याचरणेषु अभ्युपपद्यन्ते मध्यानयोगेषु For Private and Personal Use Only