________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / तदिदं ते ममासेन कथितं शिखरं मया / अधुना वर्ण्यते जैनं पुरं तत्त्वं निशामय // इदं हि मत्पुर वत्म निरन्तानन्द कारणम् / दुर्लभं भवचक्रे तु जन्तुभिः पुण्यवर्जितैः // यतः / कालेन भूयमा लोकाः पर्यटन्तः कथंचन / श्रामादयन्ति कृच्छ्रण पुरं मात्त्विकमानसम् // स्थित्वा तत्र पुनन्ति भवचक्रे निरन्तके / एनं वत्स न पश्यन्ति विवेकवरपर्वतम् // भूरिभिर्विहितेम्तात ततश्चेत्थ गमागमैः / कदाचित्तेऽत्र पश्येयुर्विवेकवरपर्वतम् // नारो हन्ति च दृष्टेऽपि तथान्ये वत्म मगिरौ / प्रयान्ति च विदन्तोऽपि भवचक्रे स्ववैरिणः // पारोहेयुः कदाचिच्च तत्रारूढाः सुदुर्लभम् / शिखरं ते न पश्येयुरिदं वत्मा तिसुन्दरम् // दृष्टेपि नानुतिष्ठन्ति तत्रारोहणमुच्चकैः / शैथिल्ये व तिष्ठन्ति भवचक्र मकौतु काः // यदा तु धन्याः शिवरमारोहन्ति मनोहरम् / इदं वत्स जना जैनं पश्यन्येव तदा पुरम् // मा चेषा भवचक्रेऽत्र वर्तमानः सुदर्लभा / सामग्री जन्तुभिर्वत्म यास्य दर्शनकारिणौ // तेनेदं मततानन्दकारणं जैनसत्पुरम् / For Private and Personal Use Only