________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 674 उमितिभवप्रपञ्चा कथा / विलोक्ये विरज्यन्ते नगरात्तेऽमुतो जनाः // विरकाश्च भवन्यत्र प्रतिबद्धा महागिरौ / विवेके भावतः मौख्य हेतुरेष च महिरिः // ततश्च / विवेकसगिरेवत्म माहात्म्येनास्य ते जनाः / भवन्ति सुखिनोऽत्यन्त भवचक्रेऽपि मंस्थिताः // तदेष सर्वलोकानां सुखहेतुर्महागिरिः / विवेको वर्णितस्तुभ्यमधुना शिखरं श्टण // इदं हि शिखरं तात सर्वदोषनिबर्हणम् / उत्तामकारणं मन्ये दृष्टान्तरमहीभुजाम् // यतः / विवेकारूढ लोकानां यद्यपद्रव कारिण: / आगच्छेयुः क्वचिद्भट महामोहादिशत्रवः // ततस्ते निर्दयैर्भूत्वा विवेकारूढजन्तु भिः / शिखरादप्रमत्तत्वालोव्यन्तेऽस्मात्र संशयः // ततस्ते चूर्णिताशेषशरीरावयवाः पुनः / दूरतः प्रपलायन्ते शिखरं वौच्य कातराः // तदिदं नूनमेतेषां दलनाथें विनिर्मितम् / विवेकवासिशत्रूणामन्तरङ्गमहों भुजाम् // किं च / शुभं विशालमुत्तुङ्गं सर्वलोकसुखावहम् / वत्सेदमप्रमत्तत्वं शिखरं गाढसुन्दरम् // For Private and Personal Use Only