________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / ततो जेनं समासाद्य पुरं यान्ति सुखास्पदम् // एवं च स्थिते / पुरप्रभावमात्रेण सदैते सुन्दरा जनाः / विवेकशिखरारूढाः पुनः स्युर तिसन्दराः // किं च / अन्येषां पापिनां वत्म भवचक्रनिवासिनाम् / सदा न प्रतिभातौदं जनानां जैनसत्पुरम् // निवसन्ति पुनर्यऽत्र पुरे मात्त्विकमानसे / बहिरङ्गजनास्तेषां भातौदं जैनमत्पुरम् // तदमौ भाविकल्याणा लोका मार्गानुयायिनः / वास्तव्यकाः पुरे येऽत्र सदा प्रकृतिसुन्दरे // तदेते कथितास्तुभ्यं पुरे सात्त्विकमानसे / लोका महागिरे रूपं समाकर्णय साम्प्रतम् // तावद्दारुणदुःखार्ता भवचक्रनिवामिनः / जना यावन पश्यन्ति ते विवेकमहागिरिम् / तदा न रमते तेषां भवचक्रे मतिर्नणम् // ततश्च / विहाय भवचक्रं ते समारुह्य महागिरिम् / विमुच्य दुःखं जायन्ते निईन्दानन्दभाजिनः // यतोऽत्र निर्मले तुङ्गे स्थितानां वत्स देहिनाम् / भवचक्रमिदं मवें करस्थमिव भासते // ततो विविधवृत्तान्त दुःखमसातपूरितम् / For Private and Personal Use Only