________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / ईदृक्षो मण्डपो लोका वास्तव्या यत्र चेदृशाः // एवं च स्थिते / यदृशं पुरं माम विवेकवरपर्वते / कि मोऽयं भवचक्रेत्र वर्तते दोषपूरिते // विमर्शनोदितं वत्म यस्मिन्नेष महागिरिः / वर्तते तदहं वक्ष्ये स्थानमस्य निशामय // चित्तवृत्तिमहाटव्यां वर्तते परमार्थतः / भवचक्रे तु विद्वद्भिरूपचारेण कथ्यते // यतोऽत्र विद्यते वत्स मल्लोकपरिपूरितम् / अन्तरङ्ग सुविस्तीर्ण पुरं मात्त्विकमानसम् // तत्रायं मंस्थितो वत्स विवेकवरपर्वतः / श्राधाराधेयसम्बन्धस्तेनेवं परिकीर्तितः // प्रकर्षणोदितं / माम यद्येवं ततो यदिदमस्य पर्वतस्टाधारभूत सात्त्विकमानसं पुरं ये च तत्सेविनो बहिरङ्गलोका यश्चायं विवेकमहागिरिर्यच्चेदमप्रमत्तत्वं शिखरं यच्चादो जैन पुरं ये चात्र स्थिता बहिरङ्गजनाः यश्चायं चित्तसमाधानमहामण्डपो या चेयं वेदिका यच्चेदं सिंहासनं यशायं नरेन्द्रो यश्चायमस्य परिवारः तदिदं सर्वे मम जन्मापूर्व / ततो ममानुग्रहधिया प्रले के विशेषतस्तवर्णयितुमर्हति मामः / विमर्शनोतं / वत्म यद्येवं ततः समाकर्णय / यदिदं पर्वताधारं पुरं सात्त्विकमानसम् / तदन्तरङ्गरत्नानां सर्वेषामाकरो मतम् // अनेकदोषपूर्णऽपि भवचक्रे व्यवस्थितम् / For Private and Personal Use Only