________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 674 उपमितिभवप्रपञ्चा कथा / जनितः धूतपापोऽहमेतेषां दर्शनात्त्वया // कृतं मानमनिर्वाणं विहितः पटुलोचनः / आनन्दामृतसेकेन गात्रं निर्वापितं च मे // केवलं दर्शनीयोऽसौ ममाद्यापि ननु त्वया / यो वर्णितो महावीर्यो माम मन्तोषभूपतिः // विमर्श नातं / य एष दृश्य ते वत्स म दृष्टेः सुखदायकः / शुभ्रश्चित्तममाधाना नाम विस्तीर्णमण्डपः // सर्वेषां वल्लभोऽमौषां जनानां पुरवामिनाम् / म सन्तोषमहाभूपो नूनमत्र भविष्यति // प्रकर्षः प्राह यद्येवं ततोऽत्रैव प्रविश्यताम् / एवं भवतु वत्मेति बभाषे तस्य मातुलः // प्रविश्य चोचिते देशे ताभ्यां दृष्टः स मण्डपः / निजप्रभावविक्षिप्तजनमन्तापसुन्दरः / तत्र च / राजमण्डलमध्यस्यं दौतिनिधूतताममम् / वेष्टितं भूरिलोकेन मचित्तानन्ददायकम् // विशालवेदिकारूढमुपविष्ठं वरामने / दत्तास्थानं नरेन्द्रं तो पश्यतः मा चतुर्मुखम् // ततः प्रकर्षस्तं वीक्ष्य मनसा हर्षनिर्भरः / मनाक संजातसन्देहो मातुलं प्रत्यभाषत / / अहो रम्यमिदं जैनं पुरं यत्रेदृशः प्रभुः / For Private and Personal Use Only