SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः / पौतेन मम किं संपत्स्यत इति शङ्काकुलाकूतस्तत्समस्ततापोपशमकारणमपि तत्त्वप्रीतिकरं तोयं न पातुमिच्छति स्म। ततस्तेन कृपापरीतचित्तेन वलात्कारेणपि हितं विधेयमिति मत्वा स्वसामर्थन मुखमुद्दाय तस्य तत्मलिलं गालितं ततस्तदाखादनसमनन्तरं तस्य महोन्मादो नष्ट व शेषरोगास्तानवं गता व दाहार्तिरुपशान्ता चेति कृत्वा स्वस्थचित्त इवामौ विभाज्यते स्म तदिदं जौवेऽपि समानमवगन्तव्यम् / तत्र यदा ग्टहीतक्षणं सुमाधपाश्रयमागच्छन्तं तत्सङ्घद्देन संपन्नद्रव्यश्रुतमात्रतया मञ्जातविवेकलवं विशिष्टतत्त्वश्रद्धानविकलं धनविषयादिषु परमार्थदर्शिनं तन्मईया सुमाधूनपि तन्मार्गणतया शङ्कमानमत एवं प्रबन्धधर्मकथाकर्णनं परिहरन्तमेनं जीवमुपलभन्ते धर्मसूरयः / तदा तेषां दयालुतया भवेदभिसन्धिः यद्येष विशिष्टतरगुणभाजनं संपद्यते ततस्ते क्वचित्समीपवर्तिनं तमवगम्य तस्या कर्णयतोऽन्यं जनमुद्दिश्य सम्यग्दर्शनगुणान् वर्णयन्ति तस्य च दुर्लभतां प्रख्यापयन्ति तदङ्गीकुर्वतां वर्गापवर्गादिकं फलमुपदर्शयन्ति इह लोकेऽपि परमचित्तनिर्वाणकारणतां तस्य सूचयन्ति तदेतत्सर्वं सञ्चातचैतन्यस्योदकनिमन्त्रणकल्पं विज्ञेयं ततोऽसौ तद्धर्मगुरुवचनं निशम्य दोलायमानबुद्धिरेवं चिन्तयेदेष श्रमणो वहस्यात्मीयसम्यग्दर्शनस्य राणजातमुपवर्णयति केवलं यदीदमहमगौकरिव्ये ततो मामात्मवशवर्त्तिनमवबुद्ध्य धनाबादिकं प्रार्थयिष्यति ततः किं प्रयोजनं ममानेनादृष्टाशयादृष्टत्यागलक्षणेनात्मवञ्चनेनेति विचिन्त्याकर्णश्रुतं हवा तन्नाङ्गीकुरुते तदिदमुदकनिमन्त्रितस्य तत्पानानिच्छासमान 13 For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy