SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथम. प्रस्तावः / लावण्यापकर्णितभुवनो जरामरणविकारविकलः कायः धर्म एव समस्त शास्त्रार्थशुभशब्दग्रहणचतुरं श्रोत्रं धर्म एव भुवनालोकनक्षमे कल्याणदर्शने स्लोचने धर्म एव मनःप्रमोदहेतवोऽनथैया रत्नराशयः धर्म एव चित्तावादविधायिनो विषघातनाद्यष्टगुणोपेताः कनककूटाः धर्म एव परनिराकरणदचं चतुरङ्गं बलं धर्म एवानन्तरतिसागरावगाहनहेतुभूतानि विलासस्थानानि / किं बहुना जल्पितेन धर्म एवैको निर्विघ्नानन्तसुखपरंपराकारणं नापरं किचिदपीत्येवं च कथयति मधुरभाषिणि भगवति धर्मसूरौ भगवत्यस्य जीवस्य मनाग् चित्ताक्षेपः तदशेन विस्कारयतीक्षणयुगलं दर्शयति वदनप्रसन्नतां त्यजति विकथादौनि विचेपान्तराणि क्वचिद्भावितहदयो विधत्ते मस्मितं वत्रकुहरं ददाति नखस्फोटिका ततो भगवन्तः सूरयो मनाग् प्रविष्टरसं तमाकलय्येत्थमभिदधते। यदुत मौम्य स धर्मश्चतुर्विधो भवति। तद्यथा दानमयः शौलमयस्तपोमयो भावनामयश्चेति / अतो यदि भवतोऽस्ति सुखाकाङ्क्षा ततोऽयमनुष्ठातुं चतुर्विधोऽपि युज्यते। भवता दीयतां सुपाचेभ्यो यथाशक्त्या दानं क्रियतां समस्तपापेभ्यो वा स्थलपापेभ्यो वा प्राणातिपातादा मृषावादादा चौर्यकरणादा परदारगमनाद्वा अपरिमितग्रहणादा रात्रिभोजनादा मद्यपानादा मांसभक्षणाद्दा मजीवफलावादनादा मित्रद्रोहादा गुर्वङ्गनागमनाहा अन्यस्माद्दाशक्यपरिहारानिवृत्तिः तथा विधीयतां यथाशक्ति कश्चित्तपोविशेषः भाव्यतामनवरतं शुभभावना भवता येन ते संपद्यन्ते निःसंशयमिहामुत्र च सकलकल्याणानौति / तदनेन यत्तदुक्तमासीत्कथानकं यथा महानमनि For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy