________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / .. 537 मक्रोधाः मायुधा घोरा वैरिमारणतत्पराः // सभापप्रसादयोगेन लसचि + + + + + / ईदृशा भो महादेवा लोकेऽनेन प्रतिष्ठिता. // ये वीतरागाः सर्वज्ञा ये शाश्वतसुखेश्वराः / क्लिष्टकर्मकलातौता निष्कलाश्च महाधियः // शान्तकोधा गताटोपा हास्यस्त्रीहेतिवर्जिताः / श्राकाशनिर्मला धौरा भगवन्तः मदाशिवाः // शापप्रसादनिर्मुकास्तथापि शिवहेतवः / चिकुटि शुद्धशास्त्रार्थदेशकाः परमेश्वराः // ये पूज्याः सर्वदेवानां ये ध्येयाः सर्वयोगिनाम् / ये चाज्ञाकरणराध्या निर्दन्दफलदायिनः // ++ +++++ न लोकेऽनेन स्ववीर्यतः / देवाः प्रच्छादिता भद्र न जायन्ते विशेषतः // तथा / हिरण्यदानं गोदानं धरादानं मुहुर्मुहुः / स्नानं पानं च धूमस्य पञ्चाग्नितपनं तथा // तर्पणं चण्डिकादीनां तीर्थान्तरनिपातनम् / यतेरेकर हे पिण्डो गौतवाद्ये महादरः // वापीकूपतडागादिकारणं च विशेषतः / यागे मन्त्रप्रयोगेण मारणं पशुसंहतेः // कियन्तो वा भविष्यन्ते भूतमर्दनहेतवः / रहिता शुद्धभावेन ये धर्माः केचिदीदृशाः // For Private And Personal Use Only