________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 536 उपमितिभवप्रपञ्चा कथा / चन्द्रि केव निशानाथे स्वप्रभेव दिवाकरे / एषा देवी नरेन्द्रेऽस्मिन् देहाभेदेन वर्तते // अत एव गुणा येऽस्य वर्णिता भद्र भूपतेः / ज्ञेयास्त एव निःशेषास्त्वयामुष्या विशेषतः // प्रकर्षः प्राह यद्येवं ततोऽतिनिकटे स्थितः / महाराजाधिराजस्य कृष्णवर्णः सुभौषणः // निरीक्षमाणो निःशेष राजकं वक्रचक्षुषा / य एष दृश्यते सोऽयं कतमो माम भूपतिः // विमर्शः प्राह विख्यातो राज्यसर्वखनायकः / मिथ्यादर्शननामा महामोहमहत्तमः // अनेन तन्त्रितं राज्यं वहत्यस्य महीपतेः / बक्षसम्पादकोऽत्यर्थममौषामेष भूभुजाम् // अत्रैव संस्थितो भद्र निजवौर्यण देहिनाम् / यदेष वहिरङ्गानां कुरुते तन्निबोध मे // अदेवे देवसङ्कल्पमधर्म धर्ममानिताम् / श्रतत्त्वे तत्त्वबुद्धिं च विधत्ते सुपरिस्फुटम् // अपात्रे पात्रतारोपमगुणेषु गुणग्रहम् / संमारहेतौ निर्वाणहेतुभावं करोत्ययम् // तथाहि / हमितोगौतविब्बोकनाट्याटोपपरायणाः / हताः कटाचविक्षेपैर्नारोदेहार्धधारिण: // कामान्धाः परदारेषु सकचित्ता क्षतत्रपाः / For Private And Personal Use Only