________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 532 उपमितिभवप्रपच्चा कथा। एवंविधविकल्पैश्च गुरुवाक्यपराङ्मुखः / अभूतगुणसङ्घातं तेषु भोगेषु मन्यते // कथम् / स्थिरा ममैते शुद्धाश्च सुखरूपाश्च तत्त्वतः / एतदात्मक एवाहमलमन्येन केनचित् // श्रास्तामेष रहौतेन मोक्षेण प्रशमेन वा। अहं तु नेदृशैर्वाक्यरात्मानं वञ्चयामि भोः // ततश्च / सद्धर्मावेदनव्याजागाढं पूत्कुर्वतोऽग्रतः / गुरोरपि प्रवर्तत प्रमादाचिकर्दमे // मा सर्वयमविद्याख्या जीवस्यास्य वरानने / महामोहनरेन्द्रस्य गात्रयष्टिर्विजम्भते // यथा स भोजनं भूयो भवयित्वा पुनर्वमन् / संजातमनिपातत्वात्पतितस्तत्र भूतले // लठन्त्रितस्ततो गाढं मुञ्चत्राक्रन्दभैरवम् / अनाख्येयामचिन्यां च प्राप्तोऽवस्था सुदारुणाम् // न त्रातः केनचिल्लोके तदवस्थः स्थितः परम् / तथायमपि विज्ञेयो जीवः सर्वाङ्गसुन्दरि // तथाहि / यदा प्रमत्ततायुक्तस्तदिलासपरायणः / विक्षिप्तचित्तस्तृष्णाता विपर्यासवगतः // अविद्यान्धीकतो जीवः सक्नः संमारकर्दमे / For Private And Personal Use Only