________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 531 ये च बाह्याणुनिष्पन्नास्तुच्छा गाढ़मनात्मकाः / तेषु कः पण्डितो रागं कुर्यादात्मखरूपवित् // अतो ममोपरोधेन भद्र भोगेषु कुत्रचित् / अन्येषु च प्रमादेषु मा प्रवर्तिष्ट साम्प्रतम् // तदेवं पद्मपत्राक्षि निवारयति सद्गुरौ / प्रमादभोजने मनः स जौवो हृदि मन्यते // अहो विमूढः खल्वेष वस्तुतत्त्वं न बुध्यते / पाल्हादजनकानेष यो भोगानपि निन्दति // तथा हि / मद्यं वरस्त्रियो मांसं गान्धर्व मृष्टभोजनम् / माल्यताम्बूलनेपथ्यविस्ताराः सुखमासनम् // अलङ्काराः सुधा शुभ्रा कौर्तिर्भुवनगामिनी / सद्रननिचयाः शूरं चतुरङ्ग महाबलम् // राज्यं प्रणतमामन्तं यथेष्टाः सर्वसम्पदः / यद्येतदुःखहेतुस्ते किमन्यत्सुखकारणम् // विप्रलब्धाः कुसिद्धान्तैः शुष्कपाण्डित्यगर्विताः / ये नूनमीदृशा लोके भोगभोजनवञ्चिताः // ते मोहेन स्वयं नष्टाः परानपि कृमोद्यमाः / नाशयन्ति हि तत्ते ते वर्जनौया विजानता // तथाहि / यो भोगरहितो मोक्षो बन्धनं तदुदाहृतम् / तदर्थ कत्यजेदृष्टमिदं भोगसुखामृतम् // For Private And Personal Use Only