________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 510 उपमितिभवप्रपञ्चा कथा / विक्षेपणाविपर्यासाविद्यामहामोहाभिधानानि निवेदितानि मया भावार्थमधिकृत्य न सम्यग्विज्ञातानि / विकल्पितानि मया यथानाम्ना परमेतानि भिद्यन्ते नार्थेन / यतः सर्वाण्यपि पुष्टिकारणतयामौषामन्तरङ्गलोकानामनर्थकारणतया च वहिरङ्गजनानां समानानि वर्तन्ते / ततो यद्येतेषामस्ति कश्चिदर्थन भेदस्तं मे निवेदयतु मामः / विमर्शः प्राह / ननु निवेदित एव प्रत्येकमेतेषां गुणन् वर्णयता मया परिस्फुटोऽर्थभेदः। तथापि स यदि न विज्ञातो भद्रेण ततः पुनरपि निवेदयामि / ततः कथितो विमशैन महानद्यादौनां वस्तूनां प्रत्येकं भावार्थः / बुद्धः प्रकर्षेण // अत्रान्तरे नरवाहनः प्राह। भदन्त वयमपि बोधनौयास्तेषां भावार्थ / ततः प्रबोधितो नरवाहननरेन्द्रोऽपि तेन भगवता विचक्षणमूरिणा। ततोऽग्टहीतसङ्केतयाभिहितं / भद्र संमारिजीव तर्हि यद्येवं ततोऽहमपौदानौं तेषां महानद्यादिवस्तुनां बोधनीया भवतार्थ वेदनौया भवतार्थभेदं। संसारिजौवेनोक्तं / भने स्पष्टदृष्टान्तमन्तरेण न त्वया सुखावमेयमेतेषां प्रविभक्तं खरूपं / अतो दृष्टान्नं कथयिष्ये। अग्टहीतसङ्केतयोक्तं / अनुग्रहो मे / संसारिजीवेनाभिहितं। अस्ति संभावितसमस्तवृत्तान्तं भवनोदरं नाम नगरम् / तत्र च निवारको हरिहरहिरण्यगर्भादौनामपि प्रभुगतरनादिर्नाम राजा / तस्य च नौतिमार्गनिपुणा विच्छेदकारिणी कुयुनिमिथ्याविकल्पजल्पानां संस्थिति म महादेवौ। तयोश्चात्यन्तवल्लभोऽस्ति वेलहलो नाम तनयः / स च गाढ़माहारप्रियो दिवानिशमनवरतं For Private And Personal Use Only