________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 516 उपमितिभवप्रपञ्चा कथा / गतोऽसौ माहेश्वरग्टहे। याचिता तेन रज्नुः / समर्पिता माहेश्वरः शणमयो / शान्तिशिवः प्राह / अलमनया / मम वालमय्यातिपरुषया प्रयोजनं। दत्ता तादृश्येव माहेश्वरैरभिहितं च / भट्टारक किं पुनरनया कार्य। शान्तिशिवेनोक्तं / सुग्टहीतनामधेयानां सदाशिवभट्टारकाणामौषधं करिष्यते / ततो ग्रहोला रज्जु गतो मठे शान्तिशिवः / तत्र च दृष्ट्वा गुरुं कृतमनेन विषमभृकुटितरङ्गभङ्गकरालं वत्रकुहरं बद्धश्चाराटोर्मुञ्चन्नसौ मठमध्यस्तम्भके निजाचार्यः। ततो ग्टहीतबहल्लकुटोऽसौ प्रवृत्तस्तस्य ताडने / दूतश्च माहेश्वरैश्चिन्तितं / गच्छामो भट्टारकाणां क्रियायां क्रियमाणायां प्रत्यासन्नाः स्वयं भवामः / ततः समागतास्ते। दृष्टो निर्दयं ताडयन्नाचार्य भान्तिशिवः / तैरभिहितं। किमित्येनमेवं ताडयमि / शान्ति शिवः प्राह / न एणोति कथंचिदप्येष पापः / ततो विहितः सदाशिवेन म्रियमाणेन महाक्रन्दभैरवः शब्दः / ततो लगा वारणार्थं हाहारवं कुर्वन्तः शान्तिशिवस्य माहेश्वराः / शान्तिशिवः प्राह / मारणीयो मयायं दुरात्मा यो ममैवं कुर्वतोऽपि न श्टणोनि। अपसरतापसरत यूयमितरथा युभाकमपीयमेव वातति। तथापि वारयतो माहेश्वरानपि प्रवृत्तस्ताडयितुमसौ लकुटेन / ततो बहुत्वात्तेषां रे लात लातेति बेवाणैरुद्दालितस्तस्य हस्तालकुटः / चिन्तितं च। नूनं ग्रहग्टहीतोऽयं / ततो बद्धस्तैस्ताडयित्वा पश्चावाहुबन्धेन शान्तिशिवः / विमोचितः मदाशिवः / लन्धा चेतना / जौवितो दैवयोगेन / माहेश्वरैरभिहितं / शान्तिशिव किमिदं भगवतस्लया कर्तमारब्धमामौत् / शान्तिशिवः प्राह / For Private And Personal Use Only