________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 461 मशहं कुर्वतामुख्या मूलशुद्धिः परोक्ष्यताम् // यतः / अत्यन्तमप्रमत्तोऽपि मूलद्धेरवेदकः / स्त्रीणामर्पितमनावः प्रयाति निधनं नरः // ततो निजचास्तयाभिहितं / वम विचक्षण सुन्दरं ते जनकेन मन्त्रितं। अन्विष्यतामस्या रसनाया मूलशुद्धिः / को दोषः / विज्ञातकुलशौलस्वरूपा हि सुखतरमनुवर्तनीया भविष्यति / बुझ्याभिहितं / आर्यपुज्ञ यद्गुरू श्राज्ञापयतस्तदेवानुष्ठातुं युक्तमार्यपुत्रस्य / अलकनीयवाक्या हि गुरवः सत्पुरुषाणां भवन्ति / प्रकर्षः प्राह / तात सुन्दरमम्बया जल्पितं / विमर्शनीतं / को वात्रासुन्दरं वक्तुं जानौते / सर्वथा सुन्दरमेवेदं यत्सुपरीक्षितं क्रियत इति / विचक्षणेन चिन्तितं / सुन्दरमेतानि मन्त्रयन्ति / न संग्रहणीयैव विदुषा पुरुषेणा विज्ञातकुलमोलाचारा ललना / केवलं कथितमेव मम लोलतया रसनायाः सम्बन्धि मूलोत्थानं / विज्ञातश्चाधुना मया शोलाचारः / यदुत खादनपानप्रियेयं रसना। अथवा नहि नहि को हि सकर्णकः पुरुषो भुजङ्गवनितागतिकुटिलतरचित्तवृत्तेः कुलयोषितोऽपि वचने संप्रत्ययं कुर्यात् / किं पुनर्दासचेव्याः / तत्कौदृशो मम लोलतावचने संप्रत्ययः / भौलाचारोऽपि सहसंवासेन भूयसा च कालेन सम्यग् विज्ञायते न यथाकथंचित्। तत्किमनेन बहुना / करोमि तावदहं तातादौनामुपदेशं गवेषयाम्यस्या रसनाया मूलशुद्धिं / ततो विज्ञाय यथोचितं करिष्यामौति विचिग्य विचक्षणेनाभिहितं / यदाज्ञापयति For Private And Personal Use Only