________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 46. उपमितिभवप्रपञ्चा कथा / दर्पणर्पितदुर्गाह्यवदनप्रतिमोपमा // बहुकौटिल्यनागानां संस्थापनकरण्डिका / कालकूटविषस्योच्चैलतेव मरणप्रदा // नरकानलसन्तापदायिकेयमुदाहता / मोक्षप्रापकमध्यानशत्रुभूता च वर्तते // कार्य मंचिन्तयत्यन्यद्भाषतेऽन्यच्च मायया / करोत्यन्यच्च मा पुंसः शुद्धशौला च भासते // ऐन्द्रजालिकविद्येव दृष्टेराच्छेदकारिका / नरचित्तजतुद्रावकारिणौ वन्हिपिण्डवत् // प्रकृत्यैव च सर्वेषां वैमनस्यविधायिनौ / संसारचक्रविभ्रान्तिहेतुर्नारौ बुधैर्मता // पुंभिराखादितं दिव्यं विवेकामृतभोजनम् / चुदेव वामयत्येषा भुज्यमाना न संशयः // अनृतं साहसं माया नैर्लज्ज्यमतिलोभिता / निर्दयत्वमशौचं च नार्याः स्वाभाविका गुणाः // वत्म किं बहुनोतन ये केचिद्दोषसञ्चयाः / ते नारौभाण्डशालायामाकालं सुप्रतिष्ठिताः // तस्मात्तस्याः सदा पुंसा न कर्तव्यो हितैषिणा / विश्रम्भवणगो ह्यात्मा तेनेदमभिधीयते // येयं ते रसना भार्या संपन्ना लोलतायुता / न सुन्दरैषा मे भाति को वा योगस्तवानया // यतो न ज्ञायतेऽद्यापि कुतस्येयं ततस्वया / For Private And Personal Use Only