________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 476 उपमितिभवप्रपञ्चा कथा / ततश्चित्ते कृतं तेन ननं नास्ति जगत्त्रये / ईदृशं नरमाणिक्यं यादृशोऽयं तपोधनः // निर्जितामरसौन्दर्या निवेदयति वौक्षिता / अमुव्याकृतिरेवोच्चैर्गुणसम्भारगौरवम् // तदौदृशस्य किं नाम भवेद्वैराग्यकारणम् / येन यौवनसंस्थेन खण्डितो मकरध्वजः // अथवा गला प्रणम्य पादानं खयमेव महात्मनः / ततः पृच्छामि पूतात्मा भवनिर्वेदकारणम् // एवं विचिन्त्य गत्वामौ नत्वा सूरेः क्रमदयम् / दत्ताशौस्तेन इष्टात्मा निषमः शुद्धभूतले // ततस्तदनुमार्गण राजवृन्दं तथा पुरम् / उपविष्टं यथास्थानं नत्वाचायांघ्रिपङ्कजम् // मया तु भद्रे पापेन शैलराजवशात्मना / न नतं तादृशस्यापि तदा सूरेः क्रमद्दयम् // पाषाणभूतमुक्नोलौमन्निभो लोकपूरणः / केवलं स्तब्धसर्वाङ्गो निषलोऽहं भुवस्तले // अथ गम्भीरघोषेण मेघवन्नौरपूरितः / धर्ममाख्यातमारब्धः स प्राचार्यो विचक्षण: // अभिहितं च तेन भगवता / यदुत भो भो भव्याः प्रदीप्तभवनोदरकल्पोऽयं संसारविस्तारो निवास: शारीरादिदुःखानां / न युत दह विदुषः प्रमादः / अतिदुर्लभेयं मानुषावस्था प्रधानं पर For Private And Personal Use Only