________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 446 उपमितिभवप्रपञ्चा कथा / अहं तु तन्न जाने स्म महामोहवणं गतः / ततस्तत्र मृषावादे पश्यामि गुणमालिकाम् // एवं च वर्तमानस्य वयम्यद्वययोगतः / कलाग्रहणकालो मे संप्राप्तः क्रमशोऽन्यदा // ततस्तातेन संपूज्य कलाचार्य विधानतः / तस्थापितोऽहं सद्भक्त्या महानन्दपुरःमरम् // उक्तश्चाहं गुरुः पुत्र तवायं ज्ञानदायकः / अतः पादौ प्रणम्यास्य शिव्यभावं ममाचर // मयोक्तं तात मुग्धोऽमि यो मामेवं प्रभाषसे / वराकः किं विजानौते ननमेष ममाग्रतः // गुरुरन्यस्य लोकस्य स्यादेष न तु मादृशाम् / श्रतो नाहं पताम्यस्य पादयोः शास्त्र काम्यया // केवलम् / भवतामनुरोधेन ग्रहामि मकलाः कलाः / मदीयविनयो नूनमस्य स्थानमा हलोहितम् // ततस्तातेन म प्रोतः कलाचार्या रहःस्थितः / आर्य मामकपुत्रोऽयं गाढं मानधनेश्वरः / / तदत्र भवता नास्य दृष्ट्वाप्यविनयादिकम् / चित्तोबेगो विधातव्यो ग्राहणौयश्च मत्कलाः // ततो विनयनमस्य श्रुत्वा तातस्य जल्पितम् / यदादिशति राजेन्द्र इत्याह म महामतिः // चिन्तितं च तदा तेन कलाचार्येण मानसे / For Private And Personal Use Only