________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / लस्यन्ते नूनमेवंविधामनर्थपरंपरामित्येषा चिन्ता ममान्तःकरणमाकुलयति // संसारिजौवः प्राह / ततः पुनरन्यदाहमग्टहीतसङ्केते नौतः श्वेतपुरे भवितव्यतया विहितश्चाभौररूपः। तद्रूपतया वर्तमानस्य मे तिरोभूतोऽसौ वैश्वानरः / जातो मनागहं शान्तरूपः / प्रवृत्ता मे यदृच्छया दानबुद्धिः / न चाभ्यस्तं किंचिद्विशिष्टं शौलम् / न चानुष्ठितः कश्चित्संयमविशेषः। केवलं कथंचिइर्षणवर्णनन्यायेन संपन्नोऽहं तदा मध्यमगुणः। ततस्तथाभूतं मामुपलभ्य जाता मयि प्रसन्नहृदया भवितव्यता / ततश्चाविर्भावितोऽनया पुनरपि सहचरो मे पुण्योदयः / ततोऽभिहितमनया। आर्यपुत्र गन्तव्यं भवता सिद्धार्थपुरे स्थातव्यं तत्र यथासुखासिकया। अयं च तवानुचरः पुण्योदयो भविष्यति / मयाभिहितं। यदाज्ञापयति देवौ / ततो जीर्णायां प्राचीनगुडिकायां दत्ता पुनरेकभववेद्या मा ममापरा गुडिका भवितव्य तयति। भो भव्याः प्रविहाय मोहललितं युभाभिराकीतामेकान्तेन हितं मदीयवचनं कृत्वा विशुद्धं मनः / राधावेधसमं कथंचिदतलं लब्चापि मानुष्यक हिंसाक्रोधवशानुगैरिदमहो जौवैः पुरा हारितम् // अनादिसंसारमहाप्रपञ्चे क्वचित्पुनः स्पर्शवशेन मूढैः। अनन्तवारान् परमार्थशून्यैविनाशितं मानुषजन्म जौवैः / For Private And Personal Use Only