________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः। g27 तदिदं दुष्करं कर्म किं तु पर्यन्तसुन्दरम् / एवं व्यवस्थिते भूप कुरुष्व यदि रोचते // नपतिराह। शिष्टं भगवता पूर्व कुटुम्बद्धयमा दिमम् / अविच्छिन्नं प्रवाहेण सदानादिभवोदधौ / / ढतौयं पुनरुद्दिष्टं विनाशोत्पत्तिधर्मकम् / तत्किं भवे भवे नाथ संभवत्यपरापरम् // सूरिराह महाराज संभवत्यपरापरम् / भवे भवेऽत्र जन्तूनां तत्ततीयं कुटुम्बकम् // राजाह नाथ यद्येवं ततोऽनादिभवार्णवे / अनन्तानि कुटुम्बानि त्यतपूर्वाणि देहिभिः / / सूरिराह महाराज सत्यमेतन्न संशयः / एते हि पथिकप्रायाः सर्वे जीवास्तपखिनः / ततश्च / अन्यान्यानि कुटुम्बानि मुञ्चन्तो वामकेष्विव / अपरापरदेहेषु संचरन्ति पुनः पुनः // राजाह नाथ यद्येवं ततोऽत्रापि भवे नृणाम् / कुटुम्बे स्नेहसम्बन्धो महामोह विजृम्भितम् // सूरिराह महाराज सम्यग्ज्ञातमिदं त्वया / महामोहं विना को वा कुर्यादेनं सकर्णकः // राजाह यो न शक्नोति कत नाथ निबर्हणम् / द्वितीयस्य कुटुम्बस्य कथंचिच्छक्तिविभ्रमात् // For Private And Personal Use Only