________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 126 उपमितिभवप्रपञ्चा कथा / सर्वेषां स्निग्धबन्धूनामेते राजेन्द्र साधवः / / पुष्टिं गतेन तेनोच्चैनिहतं भग्नपौरुषम् / अमीषां बाधकं नैव तद्वितीयं कुटुम्बकम् // अन्यच्च पोषकं ज्ञात्वा द्वितीयस्य तृतीयकम् / राजनेतैः परित्यक्तं सर्वथैव कुटुम्बकम् // यावत्तृतीयं न त्यतं तावज्जेतुं न शक्यते / द्वितीयमपि कायन पुरुषेण कुटुम्बकम् // श्रतो यद्यस्ति ते वाञ्छा भूप संसारमोचने / ततोऽतिनिघणं कर्म मयोतमिदमाचर // केवलं सम्यगालोच्य मध्यस्थेनान्तरात्मना / किं शक्येत मया कर्तुं किं वा नेदमिति त्वया / / एतेऽतिनिघृणाः कर्म कथंचिदिदमौदृशम् / कुर्वन्त्यन्यासयोगेन नृशंसा भूप साधवः // अन्येन पुनरौदृक्षं कर्म बन्धुदयालुना / चिन्तयितुमपि नो शक्यं करणं दूरतः स्थितम् / / किंतु। योऽयं त्यागस्तृतीयस्य द्वितीयस्य च घातनम् / कुटुम्बकस्य राजेन्द्र प्रथमस्य च पोषणम् // एतत्त्रयं परिज्ञाय कृत्वा श्रद्धानमञ्जमा / अनुष्ठाय च वीर्येण भूयांसो मुनिपुङ्गवाः / / भवप्रपञ्चानिर्मुक्काः सर्वदन्दविवर्जिताः / स्थित्वा स्वाभाविके रूपे मोदन्ते मोक्षवर्तिनः / For Private And Personal Use Only