________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 41. उपमितिभप्रपञ्चा कथा / तया चिन्तामणिरिव दुर्लभतया स्फटिक व निर्मलतया भूभाग दूव सर्वसहिष्णुतया गगनतलमिव 'निरालम्बनतया गन्धकरीव वरकरिभिः परिकरितः स्वप्रतिबिम्बकैरिव बहुविधविनेयैः समागतः केवलज्ञानदिवाकरो विवेको नामार्यः। समुपविष्टः कनककमले। प्रणिपत्य विहितकरामुकुला निषमा परिषत् / प्रारब्धं व्यख्यानं // अत्रान्तरे भगवतः प्रतापं सोढमशक्नुवन्तौ मदीयगरौरानिर्गतौ हिंसावैश्वानरौ दूरदेश स्थितौ मां प्रतीक्षमाणौ / अथारिदमनो राजा मुनि विज्ञाय लोकतः / स पुरो निर्गतस्तस्य मुनेर्वन्दनकाम्यया // तथा मदनमञ्जूषा या दत्ता मम कन्यका / मापि तत्र समायाता सहिता रतिचूलया // विहाय पञ्चचिहानि भक्तिनिर्भरमानसः / राजा कृतोत्तरामङ्गः प्रविष्टः सूर्यवग्रहे। पञ्चाङ्गप्रणिपातेन पादयोन्य॑स्तमस्तकः / प्रणम्य सूरिं नौति स्म ललाटे कृतकुद्मलः // कथम् / अज्ञानतिमिरोच्छेद करनाथ दिवाकर। नमस्ते रागसन्तापनाशकारिनिशाकर // खपाददर्शनेनाद्य नाथ कारुण्यमागर / भवता भवनिर्नाशपूतपापाः कृता वयम् // अद्यैव ननु जातोऽस्मि राज्येऽद्यैव प्रतिष्ठितः / For Private And Personal Use Only