________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 365 दिनं। तदिदं कुमारस्य युभत्ममी पेऽनागमनकारणमिति / तातेनाभिहितं / विदुर महापापहेतुरिदं मृगयाव्यमनं न च सेवितमस्मदंशजेनरपतिभिः / अतो यद्यस्य निमित्तभूतेयं भार्या कुमारस्यापमार्यते ततः सुन्दरं भवति / विदुरः प्राह। देव वैश्वानरवन्निरुपक्रमेयं लक्ष्यते / अथवा श्रूयते पुनरप्यायातोऽत्र नगरे म जिनमतज्ञो नैमित्तिकः / ततः स एवाय प्रष्टुं युक्तो यदत्र कर्तव्यमिति। तातेनाभिहितं। आकारय तर्हि तं नेमित्तिकं / विदुरेणोक्तं / यदाज्ञापयति देवः // ततो निर्गतो विदरः / समागतः स्तोकवेलायां ग्टहीत्वा जिनमतज्ञं। ततो विधाय तस्य प्रतिपत्तिमाख्यातं तातेन प्रयोजनं। ततो निरूपितं बुद्धिनाडौसञ्चारतो नैमित्तिकेनाभिहितं च। यथा महाराज एक एवात्र परमुपायो विद्यते / म यदि संपद्यत ततः स्वयमेव प्रलीयेत कुमारस्थयमनर्थकारिणी हिंसाभिधाना भार्या / तातेनाभिहितं। कीदृशः स इति कथयत्वार्यः / जिनमतज्ञेनाभिहित। यत्तदा वर्णितं ममक्षमेव भवतां / यथास्ति रहितं सर्वोपद्रवैर्निवासस्थानं समस्तगुणानां कारणं कल्याणपरम्परायाः दुर्लभं मन्दभागधेयश्चित्तसौन्दर्य नगरं। तत्र च यो वर्णितः / यथास्ति हितकारी लोकानां कृतोद्योगो दुष्टनिग्रहे दत्तावधानः शिष्टपरिपालने परिपूर्ण: कोपदण्डसमुदयेन शुभपरिणामो नाम राजा। तस्य राज्ञो यथासौ क्षान्तेर्जनयित्री निष्पकम्पता नाम महादेवी तदा वर्णिता तथैव तस्यान्यापि द्वितीयास्ति हितकारिणी लोकानां निकष For Private And Personal Use Only