________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 264 उपमितिभवप्रयचा कथा। हिंमावैश्वानरामतः पुण्योदयपरामुखः / ततोऽहं धर्ममार्गस्य दूरादूरतरं गतः // नतश्च। रात्रिशेषे समुत्थाय पापी बद्धमानमः / नाताम्बादौनदृष्ट्वैव गतोऽटव्यामहं ततः // अनेकमत्त्वमम्भारं मारयित्वा गते दिने / मन्ध्यायां पुनरायातः प्रविष्टो भवने निजे // प्रथामौ विदुरः प्रोक्रस्तातेनाकुलचेतमा / मत्समीपे कुमारोऽद्य किं नायातो निरूपय / / विदरेणोक्र प्रभातेऽहं स्मृत्वा मैत्रौं चिरन्तनौम् / दर्शनार्थं कुमारस्य गतस्तस्यैव मन्दिरे // ततः परिजनेनोनं यथाखेटककाम्यया / रात्रावेव गतोऽटव्यां कुमारो नास्ति भो रहे / ततो मयाभिहितं। किमद्यैव कुमारो गतः पापड़िबुद्ध्या किं वा प्रतिदिनं गच्छतौति। परिजनः प्राह / भद्र यतः प्रभृतीयं हिंमा परिणौता कुमारेण तत प्रारभ्य प्रतिदिनं गच्छति / नान्यथा तिं लभते / किं बहुना। जीवितादपि बल्लभोऽधुना आखेटकः कुमारस्येति। मया चिन्तितं / अहो हता देवेन वयं मन्दभाग्याः। तदिदमाभाणकमाया। यदुत यत्करभस्य पृष्ठे न माति तत्कण्ठे निबध्यत इति / तथा हि वैश्वानरपापमित्रयोगेणैव कुमारस्य गाढमुद्धेजिता वयं यावते यमपरा कृत्येवास्य भार्या संपन्नेति। तत्किं पुनरत्र विधेयमिति चिन्तयतो मे गतं For Private And Personal Use Only