________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / विवाहयज्ञः। प्रविष्टोऽहमपहसितसुरभवने कनकमञ्चरोमनाथे वामभवने अवगाषितसुरतामृतसागरः। एवं च प्रवर्धमानानुरागयोरावयोर्गतानि कतिचिद्दिनानि // दूतच विभाकरस्य कृतं व्रणकर्म। प्रगुणीभूतः शरीरेण / जातो मया महास्य खेहभावः / समुत्पनी विश्रम्भः / अन्यदा विधाय बहुमानं प्रहितः सपरिकरोऽसौ स्वस्थाने कनकचडराजेन / येऽपि तेऽम्बरीषनामानश्चरटा वीरसेनप्रभृतयो हते प्रवरसेने प्रतिपत्रभृत्यभावा मया सह पूर्वमागतास्तेऽपि कृतसन्माना मया विसर्जिता गताः स्वस्थाने / ततोऽहं विगतचिन्तासन्तापस्ताभ्यां रत्नवतीकनकमञ्जरीभ्यामानन्दमहोदधिमवगाहमानः स्थितस्तचैव कियन्तमपि कालं / प्रस्थापि च व्यतिकरस्य परमार्थतः स एव पुण्योदयः कारणं / मम तु महामोहवशेन तदा प्रतिष्ठितं हृदये / यदुताहो हिंसावैश्वानरयोः प्रभावातिशयः। अनयोहि माहात्म्येन मयेयं निरुपमानन्दामृतरसकूपिका कनकमञ्जरी लब्धेति। यतः कथितं तेतलेः कपिञ्चलया कनकचडराजादाकर्णितं मणिमञ्जरौवचनं यथा यतोऽनेन नन्दिवर्धनकुमारेण महाबलावपि द्रुमसमरसेनौ लोलया विनिपातितौ तस्मादस्मै युक्रेयं दातुं कनकमञ्जरौति। तौ च द्रुमसमरसेनौ मया हिंसावैश्वानरप्रभावादेव विनिपातितौ। तस्मात्परमार्थतो हिंसावैश्वानराभ्यामेव ममेयं कनकमञ्जरी संपादितेति / ततो जातं मे गाढ़तरं हिंमावैश्वानरस्नेहप्रतिबद्धमन्त:करणं / ततो वैश्वानरवचनेन तैः क्रूरचित्ताभिधानैवटकैः प्रतिदिनमुपयुज्यमानैर्जनितं मे चण्डत्वं संपादितमसहनत्वं विहिता For Private And Personal Use Only