SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 384 उपमितिभवप्रपञ्चा कथा / कपिञ्चले नूनं रतिमन्मथयोरिवानयो-गेनेदमुद्यानमद्येव यथार्थ मंपन्न / इतरथा व्यर्थकमेवास्य रतिमन्मथमित्यभिधानं पूर्वमासीत् / ततोऽस्मन्निकटदेश प्राप्ते तेतलिकपिञ्जले। समुत्थिता ससंभ्रमेण कनकमञ्जरी। कपिञ्जलयाभिहितं। वत्से निषौदालं संभ्रमेण / ततोऽमृतपुञ्जक इव तत्र दूर्वा विताने निषमानि स्नेहनिर्भरमहासविश्रम्भजल्यैः स्थितानि वयं कियन्तमपि क्षणं // अत्रान्तरे समागतो योगन्धरो नाम कन्यान्तःपुरकञ्चको। तेन च विधाय मम प्रणाम सत्वरमाहता कनकमञ्जरौ। कपिञ्चलयाभिहितं / भद्र किमितौदमाकारणं। योगन्धरः प्राह / श्रुतेयमपटुशरीरा रात्री देवेन / ततः प्रभाते खयमेव गवेषिता स्वस्थाने न चोपलब्धा / ततः पर्याकुलोमतो देवः / ममादिष्टोऽहमनेन / यथा यतः कुतश्चिदत्मां ग्टहीत्वा भौघमागच्छति / तदिदमाङ्कानकारणं / ततस्तदाकालानीयवचनस्तात इति मन्यमाना मुहुर्मुहुमां वलिततारं विलोकयन्ती मालस्यं प्रस्थिता मह कपिञ्जलया कनकमञ्जरी क्रमेणातिक्रान्ता दृष्टिगोचरात् / तेतलिनाभिहितं / देव किमिदानीमिह स्थितेन / ततोऽहं तदेव कृतककोपं वदनं तदेव मुञ्च मुञ्च कठोरहृदय मुञ्चेति वचनं तच्च विलसद्दशनकिरणरञ्जितमधरबिम्बं तदेव च हर्षातिरेकसूचकममलकपोलविस्फुरितं तच्च सद्भावसमर्पकं सलब्नं चरणाङ्गुष्ठेन भूमिलेखनं तदेव चाभिलाषातिरेकसन्दर्शक तिरश्चौनेक्षणनिरीक्षणं तस्याः कनकमञ्जर्याः मम्बन्धि तीव्रतरमदनदाहज्वरप्रवर्धकमपि प्रकृत्या महामोहवशेन तदुपशमार्थमम्मतबुद्ध्या स्वचेतमि पुनः पुनश्चारयन् प्राप्तः खभवनं / For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy