________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / ___ 360 पतितो योद्धं विभाकरः। शरवर्षछेदानन्तरं मुक्तानि तेन कनकशेखरस्थोपरि आग्नेयपन्नगादौन्यस्त्राणि / निवारितानि वारुणगारुडादिभिः प्रतिशस्त्रैः कनकशेखरेण। ततोऽमिलतासहायः ममवतीर्ण: स्यन्दनादिभाकरः। कीदृशं रथस्थस्य भूमिस्थेन मह युद्धमिति मत्वा कनकशेखरोऽपि स्थितो भूतले / ततो दशितानेककरणविन्यासमभिवांछितमर्मप्रहारं प्रतिप्रहारवञ्चनामारं संजातं दयोरपि वृहती वेलां वलं करवास्लयुद्धम् / ततः ममाहत्य स्कन्धदेशे पातितः कनकशेखरेण विभाकरो भूतले। गतो मुछी / ममुलमितः कनकशेखरबले हर्षकलकलः। ततो निवार्य तं वायुदानमलिलाभ्युक्षण दिभिराश्वासितो विभाकरः कनकशेखरेण अभिहितश्च / साधु भो नरेन्द्रतनय साधु न मुक्तो भवता पुरुषकारः नाङ्गोकृतो दौनभावः ममुज्चालिता पूर्वपुरुषस्थितिः लेखितमात्मीयं शशधरे नामकं / तदुत्थाय पुनर्योद्भुमर्हति राजसूनुः। ततोऽहो अस्य महानुभावता अहो गम्भीरता अहो पुरुषातिरेकः अहो वचनातिरेकः इति चिन्तयता विभाकरेणाभिहितं। आर्य अलमिदानौं युद्धेन / निर्जितोऽहं भवता न केवलं खड्गन किं तर्हि चरितेनापि। ततः परमबन्धुवत् स्वयं निविमितो विभाकरः स्वकीयस्यन्दने कनकशेखरेण समाह्लादितो मधुरवचनैः / उपसंहतमायोधनं / गतं पदातिभावं सर्वमपि परसैन्यं कनकशेखरस्य / दृष्टे भयातिरेकप्रकम्पमानगात्रयष्टौ विमलाननारत्नवत्यौ ममानन्दिते पेशलवाक्यैः स्थापिते निजभर्तस्यन्दनयोः कनकचूडेन / ततो लब्धजयतया हर्षपरिपूर्णाङ्ग वयं कुशावर्तपुरे प्रवेष्टुमारब्धाः / कथम् / For Private And Personal Use Only