________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 358 उपमितिभवप्रपञ्चा कथा / सर्वाः मन्त्रौतयस्तावत्प्रवर्तन्ते जगत्त्रये / दुष्टाभिसन्धिों यावत्तामां विघटको भवेत् // प्रादुर्भावे पुनस्तम्य क धर्मः क्व च नौतयः / तेनामौ नौतिमार्गस्य धोरै!तो विलोपकः // तस्य च दुष्टाभिसन्धिनरेन्द्रस्यानभिज्ञा परवेदनानां कुशला पापमार्ग वत्सला चरटबन्दस्यानुरकचित्ता निजे भर्तरि पूतनाकारा निकरुणता नाम महादेवी / तथा हि। दुष्टाभिमन्धिना तेन नानाकारैः कदर्थनैः / चिरं कदर्थितं दीनं लोकमालोक्य मस्मिता // मा निष्करुणता देवौ दुःखं गाढतरं ततः / जनयेत्तस्य नो वेत्ति तेन मा परवेदनाम् // नेत्रोत्पाटशिरच्छेदनासिकाकर्णकर्तनम् / उत्कर्तनं त्वचोऽङ्गस्य खदिरस्येव कुट्टनम् // ये चान्ये जन्तुपौडायाः प्रकारास्तेषु कौशलात् / मा निष्करुणता देवी पापमार्ग विचक्षणा // ये ये भुवनमन्तापकारिणो दुष्टवष्टकाः / रौद्रचित्तपुरे लोकाः मन्ति द्रोहादयः खलाः // ते तेऽतिवल्लभास्तस्यास्ते ते सर्वखनायकाः / श्रतश्चरटवृन्दस्य देवी मात्यन्तवल्लभा // दृष्टाभिसन्धिराजेन्द्रं तं भर्तारं दिवानिशम् / मन्यते परमात्मानं सा शुश्रूषापरायणा // न मुञ्चति च तद्देहं संवाहयति तबलम् / For Private And Personal Use Only