________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 332 उपमितिभवप्रपञ्चा कथा। नृपतिरुवाच / अहो विवेको युस्माकमहो गम्भीरचित्तता / अहो वचनविन्यामस्तथाहो सत्त्वमारता // माध्वध्यवसितं भद्रः साधु प्रोत्साहिता वयम् / साधु भो क्षणमात्रेण बोटितं भवपञ्जरम् // एवं मामान्यतस्तावत् सर्वेषामभिनन्दनम् / कृत्वा प्रत्येकमप्याह स राजा हर्षनिर्भरः // तत्र सुबुद्धिं तावदुवाच / सखे विदितसंसारस्वभावेन त्वया ग्रहे। दूयन्तं तिष्ठता कालं वयमेव प्रतीक्षिताः // अन्यथा ते ग्रहे किं वा स्यादवस्थानकारणम् / को नाम राज्यलाभेऽपि भजेचाण्डालरूपताम् // तत्साधु विहितं माधु कृतोऽस्माकमनुग्रहः / एवमाचरता मित्र दर्शिता च सुमित्रता // मध्यमबुद्धिं प्रत्याह। वमादावेव धन्योऽसि यस्य मङ्गो मनीषिणा। नैव कल्पद्रुमोपेतो नरोऽकल्याणमर्हति // अधुना चरितेऽप्यस्य दधानेन मतिं त्वया / खभ्रातर्निर्विशेषैव दर्शिता तुल्यरूपता // तत्साधु विहितं भद्र यः पश्चादपि सुन्दरः / सोऽपि सुन्दर एवेति यतो वृद्धवाः प्रचक्षते // ततो मदनकन्दलौं प्रत्याह / For Private And Personal Use Only