________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः / अथ प्रादुर्भवद्भक्तिर्नष्टाशंकः प्रमोदितः / .. स तं प्रत्याह नान्योऽस्ति नाथो मे भवतो विना // 18 // यतोऽनुपकृतैरेव भवद्भिर्भाग्यवर्जितः / अहं सर्वाधमोऽप्येवमेतावदनुकंपितः // 7 // इतरः प्राह यद्येवमुपविश्य क्षणं त्वया / श्रूयतां यदहं वच्मि श्रुत्वा तच्च समाचर // 71 // अथोपविष्टे विश्रब्धं तस्मिन्स प्राह चारुभिः / मनः प्रह्लादयंस्तस्य वचोभिहितकाम्यया // 72 // यदभ्यधायि भवता नाथोऽन्यो नास्ति मेऽधुना / तन्त्र वाच्यं यतः स्वामौ तव वर्या नृपोत्तमः // 73 // अयं हि भगवान्नाथो भुवनेऽपि चराचरे / विशेषतः पुनर्यऽत्र भवने सन्ति जन्तवः // 74 // येऽस्य किंकरतां यान्ति नराः कल्याणभागिनः / तेषामल्येन कालेन भुवनं किंकरायते // 75 // येऽत्यन्तपापिनः सत्त्वा येनैव सुखभाजनम् / ते वराका नरेन्द्रस्य नामाप्यस्य न जानते // 76 // ये भाविभद्रा दृश्यन्ते सदनेऽस्य महात्मनः / तेषां स्वकर्मविवरो ददात्यत्र प्रवेशकम् // 77 // वस्तुतः प्रतिपद्यन्ते तेऽमुं नास्त्यत्र संशयः / विशेषाज्जानते मुग्धाः पश्चात्ते कथितं मया // 78 // तदेष नाथस्ते भद्र जात एव नरेश्वरः / यतः प्रभृति पस्येऽस्मिन् प्रविष्टस्त्वं सुपुण्यतः // 78 // For Private And Personal Use Only