________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 292 उपमितिभवप्रपञ्चा कथा / देवमाधुनमस्कारः कृतो मध्यमबुद्धिना // पापमालवयस्थाभ्यामधिष्ठितशरीरकः / बालोऽकल्याणभाङ नैव कस्यचित्प्रणतिं गतः / / किं तु ग्रामेयकाकारं बिभ्राण: स्तब्धमानमः / मनौषिमध्यमामन्ने मोऽपि गत्वा व्यवस्थितः / / अथ संभाषितास्तेऽपि धर्मलाभपुरःमरम् / गुरुणा कलवाक्येन निषलास्तत्र भूतले // इतश्च सूरिवृत्तान्तः कथञ्चिलोकवार्तया / मन्त्रिणा जिनभनेन श्रुतस्तेन सुबुद्धिना || ततः प्रोत्साहितस्तेन स राजा शत्रुमर्दनः / वन्दनार्थं मुनीन्द्रस्य व्रजाम इति भाषिणाम् // विधूतपापमात्मानं वन्दनेन महात्मनाम् / साधूनां येऽत्र कुर्वन्ति ते धन्यास्ते मनौषिणः // ततो मदनकन्दल्या साईमन्तःपुरेस्तथा / सुबुद्धिवचनाद्राजा निर्गतो मुनिबन्दकः // ततः सर्वं पुरं तत्र नृपे चलति विस्मितम् / सैन्यं च गतमुद्याने कौतुकाकृष्टमानसम् // निपत्य पादयोस्तत्र जिनस्य सबलो नृपः / प्रबोधनरतिं भक्त्या ववन्दे हृष्टमानमः // प्रणम्याशेषसाधूंश्च दत्ताशौर्गुस्साधुभिः / निषलो भूतले राजा विनयाननमस्तकः // सुबुद्धिरपि जैनेन्द्रं पादपद्मकृतानतिः / For Private And Personal Use Only