________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतौयः प्रस्तावः / 226 पादवन्दनमपि विस्मृतमिति / ततो निवृत्त्य चलितस्तदर्शनार्थं देवो मयाभिहितं भद्र कः पुनरस्य तातस्ततो विपाकेनाभिहितं आर्य अतिमुग्धोऽमि यतस्त्वमेतावदपि न जानौषे यतोऽस्य देवस्य रागकेसरिणो बालाबलादीनामपि सुप्रतीतोऽनेकाडतका भुवनत्रयप्रकटनाभिधानो महामोहो जनकः / तथा हि / महामोहो जगत्वं भ्रामयत्येष लोलया / प्राक्रादयो जगन्नाथा यस्य किङ्करतां गताः // अन्येषां लंघयन्तीह शौर्याविष्टंभतो नराः / अज्ञानं तु जगत्यत्र महामोहस्य केचन // वेदान्तवादिसिद्धान्ते परामात्मा यथा किल / चराचरस्य जगतो व्यापकत्वन गौयते // महामोहस्तथैवात्र खवौर्यण जगत्त्रये / द्वेषाद्यशेषलोकानां व्यापकः समुदाहृतः // तत एव प्रवर्त्तन्ते यान्ति तत्र पुनर्लयम् / सर्व जीवाः परे पुंसि यथा वेदान्तवादिनाम् // महामोहात्प्रवर्त्तन्ते तथा सर्व महादयः / लौयन्तेऽपि च तत्रैव परमात्मा स वर्त्तते // . अन्यच्च / यज्ज्ञातपरमार्थोऽपि बुध्वा सन्तोषजं सुखम् / इन्द्रियैर्बाध्यते जन्तुर्महामोहोऽत्र कारणम् // अधीत्य सर्वशास्त्राणि नराः पण्डितमानिनः / For Private And Personal Use Only