SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 228 उपमितिभवप्रपञ्चा कथा / हितं ततोऽयमाप्तलोकश्रुतेराकर्णितोऽद्य देवेन रागकेसरिणा स्पर्शनाद्यभिभवव्यतिकरः / ततोऽतिदुःसहमश्रुतपूर्व च खपदातिपरिभववचनमाकर्ण्य कोपानलजनितरतलोचनयुगलेन विषमस्फुरिताधरण करालभृकुटिमणकुण्डलीकृतललाटपट्टेनाबद्धनिरन्तरखेदबिन्दुना निर्दयकराभिहितधरणौपृष्ठेन प्रलयज्वलनभास्वरं रूपमाबिभ्रतामर्षवशपरिस्वलद्वचनेन देवेन रागकेसरिणाज्ञापितः परिजनः / अरे वरितास्ताडयत प्रयाणकपटहं सज्जौकुरुत चतुरङ्ग बलम्। परिजनेनाभिहितं यदाज्ञापयति देवः / ततस्तथा देवमायास्यमानमवलोक्य विषयाभिलाषेणाभिहितं देव अलमावेगन कियानसौ वराकः सन्तोषस्थानमादरस्य न खल केसरी लोलादलितत्रिगण्डगलितवरकरिनिकरो हरिणं व्यापाद्यतयोद्दिश्यायस्तचित्तो भवति देवेनाभिहितं सखे सत्यमिदं केवलं युग्ममानुषकदर्थनां कुर्वता दृढमुद्देजितास्तेन पापेन सन्तोषेण न खलु तमनुन्मल्य मम मनसः सुखासिका संपद्यते / मन्त्रिणाभिहितं देव स्तोकमेतत् मुच्यतां संरम्भः। ततस्तद्वचनेन मनाक् स्वस्थौभूतो देवः कृतमरोषं गमनोचितं स्थापित: पुरतः स्नेहसलिलपूर्ण: प्रेमाबन्धाख्यः कनककलश: उद्योषितः केलिजल्पनामको जय जय शाब्दः गौतानि चाटुवचनादौनि मङ्गलानि प्रहतं रतिकलहनामकमुद्दामातोद्यद्वन्दं निर्वतितान्यङ्गरागभूषणादौनि समस्तकौतकानि प्रवृत्तो रथावरोहणार्थं देवः / अत्रान्तरे स्मृतमनेन श्रये न दृष्टो नाप्यदृष्टोऽद्यापि मया तातः / अहो मे प्रमत्तता अहो मे दुर्विनौतता अहो मे तुच्छत्वेन खल्पप्रयोजनेऽपि पर्याकुलता यत्तात For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy