________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 218 उपमितिभवप्रपच्चा कथा / समादिष्टो विदुरः / यदुत परीक्षितव्यो भवता कुमाराभिप्रायः किं शक्यतेऽस्मात्यापमित्राद्वियोजयितं कुमारो न वेति। विदुरेणभिहितं यदाज्ञापयति देवः। ततः समुत्थितस्तातः कृतं दिवमोचितं कर्त्तव्यं द्वितीयदिने समागतो मम समीपे विदुरो विहितप्रणामो निषषणो मदन्तिके पृष्टो मया भद्र ह्यः किनागतोऽसि विदुरेण चिन्तितं श्रये समादिष्टस्तावदहं देवेन यथा लक्षयितव्यो भवता कुमाराभिप्रायः ततोऽहमस्मै यत् तत्माधुभ्यः सकाशादाकर्णितमासोन्मया दुर्जनसंसर्गदोषप्रतिपादकमुदाहरणं तत्कथयामि ततो विज्ञास्यते खल्वेतदीयोऽभिसन्धिरित्येवं विचिन्य विदुरेणाभिहितम् / कुमार किंचिदाक्षिण्यमभून्मयाभिहितं कीदृशं विदुरेमाभिहितं कथानकमाकर्णितं मथाभिहितं वर्णय कीदृशं तत्कथानकं विदुरेणाभिहितं वर्णयामि केवलमवहितेन श्रोतव्यं कुमारण मयाभिहितम् एष दत्तावधानोऽस्मि विदुरेणाभिहितं अस्त्यस्यामेव मनुजगतौ नगर्यामस्मिन्नेव भरताभिधाने पाटके चितिप्रतिष्ठितं नाम नगरं तत्रास्ति वौर्यनिधानभूतः कर्मविलासो नाम राजा तस्य च दे अग्रमहिथ्यौ शुभसुन्दरी अकुशलमाला च तत्र शुभसुन्दर्याः पुत्रोऽस्ति मनौषो नाम / बालोऽकुशलमालायास्तौच मनौषिबालौ संप्राप्तकुमारभावौ नानाकारेषु काननादिषु क्रौडास्ममनुभवन्तौ यथेष्टचेष्टया विचरतः / अन्यदा खदेहाभिधाने कानने नातिदूरादेव दृष्टस्ताभ्यां कश्चित्पुरुषः। स च तयोः पश्यतोरेव समारूढस्तच्छ्रयाभिधानं बल्मौकं निबद्धस्तेन मूर्द्धनामकतरुणाखायां पाशको निमितः शिरोधरायां प्रवाहितश्चात्मा ततो मा माइसं For Private And Personal Use Only