________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / अतएव तु मा कन्या मुनिलोकमनोहरा // कुर्यादीदृशरूपायां को न चित्तं सचेतनः / अन्यच्च / यस्य चित्तं ममारोहेदिलमन्तौ खलीलया / मा कन्या धन्यतां प्राप्य सोऽपि तद्रपतां ब्रजेत् // अतः सम्यग्गणाकांक्षी कः सकण न तां हृदि / कुर्यात्कन्यां सदाकालं सर्वकामसमर्पिकाम् // एवं च स्थिते / मा गुणोत्कर्षयोगेन कन्या सर्वाङ्गसुन्दरा / अस्य वैश्वानरस्योः प्रतिपक्षतया स्थिता // तस्या दर्शनमात्रेण भौतभौतः सुविकलः / एष वैश्वानरो मन्ये दूरतः प्रपलायते // निःशेषदोषपुञ्जोऽयं मा कन्या गुणमन्दिरम् / साक्षादग्निरयं पापः मा पुनर्हिमगौतला // महावस्थानमेवं हि नानयोर्विद्यते क्वचित् / विरोधभावात्तेनैवमस्माभिरभिधीयते // यदेष कन्यां तां धन्यां कुमारः परिणश्यति / अनेन पापमित्रेण तदा मैत्रौं विहास्थति // अत्रान्तरे चिन्तितं विदुरेण अये अनेन जिनमतज्ञेन नैमित्ति केनेदमभिहितं यथा चित्तमौन्दर्य यः शुभपरिणामः तस्य या निष्पकम्पता तजनिता या चान्तिः मैवामुं नन्दिवर्द्धनकुमारस्थानेन For Private And Personal Use Only