SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 207 सन्देहः किन्तु सकलमपि कुमारस्य गुणसन्दोहं कलङ्केनेव शशधरं कण्टकेनेव तामरमं कार्पण्येनेव वित्तनिचयं नैर्लज्येनेव स्त्रीजनं भौरुत्वेनेव पुरुषवर्ग परोपतापेनेव धर्म वैश्वानरसंपर्कण दूषितमहमवगच्छामि। यतः मकलस्यापि कलाकलापकौशलस्य प्रशमोऽलङ्करणम् / एष तु वैश्वानरपापमित्रतया सन्निहितः मन्त्रात्मौयसामर्थन तं प्रशमं कुमारस्य नाशयति / कुमारस्तु महामोहवशात्परमार्थवैरिणमप्येनं वैश्वानरं परमोपकारिणमाकलयति तदनेनेदृशेन पापमित्रेण यस्य प्रतिहतं जानमारं प्रणमामृतं कुमारस्य तस्य निष्फलो गुणप्राग्भार इति / ततस्तदाकर्ण्य तातो वजाहत व ग्टहीतो महादुःखेन ततस्ताते नाभिहितं भद्र वेदक परित्यजेदं चन्दनरससेकशीतलं तालवन्तं न मामेष बहिस्तापो बाधते गच्छ समाङ्क्षय कुमारं येनापनयामि तस्य पापमित्रसंसर्गवारणेन दुःमहमात्मनोऽन्तस्तापमिति / ततो विमुच्य तालवृन्तं क्षितिनिहितजानुकरमस्तकेन वेदकेनाभिहितं यदाज्ञापयति देवः किन्तु महाप्रयोजनमपेक्ष्य भविस्थाम्यहमस्थापितमहत्तमः ततो न तत्र देवेन कोपः करणीयः / तातेनाभिहितं भद्र हितभाषिणि कः कोपावसरो वदतु विवक्षितं भद्रः। वेदकेनाभिहितं देव यद्येवं ततः कुमारपरिचयादेवावधारितमिदं मा यदुतायं वैश्वानरोऽन्तरङ्गभूतः कुमारस्य वयस्यो न शक्योऽधुना केनाप्यपसारयितुं ग्टहीतः कुमारेणात्यर्थ हितबन्धुबुध्या For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy