________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / तृतीयः प्रस्तावः। भवप्रपञ्चस्तिर्यचु वर्तमानस्य देहिनः / एष प्रोक्तो मनुष्यत्वे यस्यात्तदधुनोच्यते // संमारिजौव उवाच / नतोऽहं भट्रेऽग्टहीतसङ्केते ममाखादितैकभववेद्यगुडिकः प्रवृत्तो गन्तुम्। इतशास्त्यस्यामेव मनुजगतौ नगयीं भरताभिधानः पाटकः। तस्य च विशेषकभूतमस्ति जयस्थलं नाम नगरम। तत्र च महानपतिगुणसंपदालिङ्गितमूर्तिः पद्मो नाम राजा। तस्य च रतिरिव मकरकेतनस्य नन्दा नाम प्रधानदेवौ। ततोऽहं तस्याः कुक्षौ प्रवेशितो भवितव्यतया स्थितस्तत्रोचितकालम् / निर्गतः सह पुण्योदयेन दृष्टो नन्दया संपन्नस्तस्थाः पुत्रो मम जात इत्यभिमानो निवेदितः प्रमोदकुम्भाभिधानेन दासदारकेण नरपतये / प्रादुर्भुतः सुतो मे इति समुत्पन्नस्तस्थाप्यनुशयः / हर्षविशेषादुलमितो गात्रेषु पुलको दः / दापितं निवेदकदारकाथ पारितोषिकम् / ममादिष्टो मज्जन्ममहोत्सवः / ततो दीयन्ते महादानानि। मुच्यन्ते बन्धनानि / पूज्यन्ते नगरदेवताः। क्रियन्ते हट्टद्दारशोभाः। शोध्यन्ते राजमार्गाः। आहन्यन्ते श्रानन्दभेर्यः। श्रागच्छन्ति विशेषोज्वलनेपथ्या राजकुले नागरकलोकाः / विधीयन्ते तदुपचाराः। प्रयुज्यन्ते समाचाराः। श्रास्फाल्यन्ते बर्यसंघाताः / For Private And Personal Use Only