________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः प्रस्तावः / 175 धरणोतले / स्थितः कियन्तमपि का निश्चलः / किमेतदिति विस्मिता नागरिकाः / लब्धा कथञ्चिच्चेतना ततः ममुत्थाय सदागममुद्दिश्यामौ त्रायध्वं नाथास्त्रायध्वमिति महता शब्देन पूकृतवान् / ततो माभैषोरभयमभयं तवेत्याश्वासितोऽसौ सदागमेन / ततस्तदाकणं प्रपन्नोऽयं मदागमम्य शरणम् / अङ्गीकृतश्चानेनातो न गोचरोऽधुना राजगासनस्येति विचिन्य विदितमदागममाहात्म्या: सभया: प्रत्यक्पदैरुपसृताः कम्पमानास्ते राजपुरुषाः स्थिता दूरदेशे। ततो विश्रब्धीभूतो मनाक् संसारिजौवः पृष्टोऽग्टहीतसङ्केतया / भद्र कतमेन व्यतिकरण ग्टहीतस्त्वमेभिः कृतान्तमदृशै राजपुरुषैरिति / ___ मोऽवोचदलमनेन व्यतिकरण / अनाख्येयः खल्वेष व्यतिकरः / यदि वा जानन्येवामुं व्यतिकरं भगवन्तः सदागमनाथाः किमाख्यातेन / सदागमेनोकम् / भट्र महत्कुठूहलमस्या अतस्तदपनोदार्थ कथयतु भवान् को दोषः / समारिजौवेनोतं यदाज्ञापयन्ति नाथाः। केवलं जनसमक्षमात्मविडम्बना कथयितुं न पारयामि / ततो विविक्रमादिशन्तु नाथा इति / ततः सदागमेन विलोकिता परिषत् स्थिता गत्वा दूरदेशे। प्रज्ञा विशालाप्युत्तिष्ठन्तौ वमप्याकर्णयखेति भणित्वा धारिता सदागमेन / तस्याश्च निकटवत्तौंमदागमवचनेनैव भव्यपुरुषोऽपि स्थित एव / ततस्तेषां चतुर्णामपि पुरतः केवलमग्टहीतसङ्केतामुद्दिश्य प्रजन्त्पितोऽसौ संसारिजीवः / अस्तौह लोके श्राकालप्रतिष्ठमनन्तजनाकुलमसंव्यवहारं नाम नगरम् / तत्र सर्वस्मिन्नेव नगरेऽनादिवनस्पतिनामानः कुलपुत्रकाः For Private And Personal Use Only