________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः प्रस्तावः। 151 विडम्ब्यमानास्ते तेन प्राणिनः प्रभविष्णना / त्रातारमात्मनः कंचिन्न लभन्ते कदाचन // स हि विज्ञापनातीतः स्वतन्त्रो यच्चिकोर्षति / तत्करोत्येव केनापि न निषिद्धो निवर्तते // ततश्च / क्वचिदिष्टवियोगात्ते क्वचित्संगमसुन्दरम् / क्वचिद्रोगभराक्रान्तं क्वचिद्दारिद्र्यदूषितम् // क्वचिदापगतानेकसत्त्वसंघातदारुणम् / क्वचित्संपत्ममुद्भूतमहानन्दमनोहरम् // विलंध्य कुलमर्यादां प्रधानकुलपुत्रकैः / अनार्यकार्यकारित्वात् क्वचिद्दर्शित विस्मयम् // क्वचिदनुरक्तभर्तारं मुञ्चभिः कुलटागणैः / नौचगामिभिराश्चर्य दधानं सुकुलोद्तैः // क्वचित्कृतचमत्कारं नृत्यद्भिहस्यहेतुभिः / खागमोत्तीर्णकर्त्तव्यामनपाखण्डमण्डलैः // तदेवंविधवृत्तान्तप्रतिबद्धमनाकुलम् / संसारनाटकं चित्रं नाटयत्येष लीलया // रागद्देषाभिधानौ दो मुरजौ तत्र नाटके / दुष्टाभिसन्धिनामा तु तयोरास्फालको मतः // मानक्रोधादिनामानो गायनाः कलकण्ठकाः / महामोहाभिधानस्तु सूत्रधारः प्रवर्तकः / रागाभिलाषसंज्ञोऽत्र नान्दीमङ्गलपाठकः / For Private And Personal Use Only