SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / गतं केवलं तदपि प्रदेशानुभवेनानुभूयते तदेव चात्र महोन्मादस्तस्मात्म नष्टप्रायो नैकान्ते नाद्यापि नष्ट इति बोद्धव्यं यतश्च सम्यग्दर्शनलाभे समस्तान्यपि भेषकर्माणि तनुतां गच्छन्ति तान्येव च गदभूतानि / अतोऽयं जौवस्तत्प्राप्तौ संजातान्यगदतानव इत्युयते। यतश्चराचरजन्तुसंधातदुःखदाहदलनत्वादत्यन्तशीतः सम्यग्ददर्शनपरिणामोऽयमतस्तत्सम्पत्तावयं जीवो विगतदाहार्तिः स्वस्थमानमो लक्षत इति। यथा च तेन रोरेण स्वस्थौभूतचेतमा चिन्तितं यदुतायं पुरुषो ममात्यन्तवत्सलो महानुभावस्तथापि मया मोहोपहतेन पूर्ववञ्चकोऽयं हरिष्यत्यनेन प्रपञ्चेन मामकं भोजनमिति कस्पितस्ततो धिङमां दुष्टचिन्तकम्। तथा हि / यद्ययं हितोद्यतमतिर्न स्यात् ततः किमित्यञ्जनप्रयोगेण मम पटदृष्टिता विहितवान् किमिति वा तोयपानेन स्वस्थतां संपादितवान् न चायं मत्तः कथञ्चिदुपकारमपेक्षते किं तर्हि महानुभावतैवैकास्य प्रवर्त्तिकेत्युक्तं तदेतज्जौवोऽपि संजातसम्यग्दर्शन: मनाचार्यगोचरं चिन्तयत्येव / तथा हि। यथावस्थितार्थदर्शितया तदायं जीवो विमुञ्चति रौद्रतां रहयति मदान्धतां परित्यजति कौटिल्पातिरेकं विजहाति गाढलोभिष्टतां शिथिल्लयति रागप्रकर्ष न विधने देषोत्कर्षः अपचिपति महामोहदोषम्। ततोऽस्य जीवस्य प्रमोदति मानसं विमलौभवत्यन्तरात्मा विवर्द्धते मतिपाटवं निवर्त्तते धनकनककलचादिभ्यः परमार्थबुद्धिः संजायते जौवादितत्वेवभिनिवेश: तनूभवन्ति निःशेषदोषाः ततोऽयं जीवो विजानौते परगुणविशेष लक्षयति खकौयदोषभातमनुस्मरति प्राचौनामात्मावस्थामवबुध्यते तत्काल For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy