________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश
मालाटी.
॥ २३॥
)
यतने पूजकत्वेन स्थिता; सुखेन कालमतिवाहयति. इतस्तदवसरे सारथिनापि तत्र गत्वा स- वोऽपि कमलवतीसंबंधः कुमाराग्रे कथितः, कुमारोऽपि तत् श्रुत्वा सर्वमपि गंधमूषिकामंत्रादिमाहात्म्यं ज्ञात्वा पश्चात्तापं कर्तुं लग्नो, हा हा किमाचरितमधमेन मयाऽधमकुलोचितं! यनिर्दूषणायाः प्राणप्रियायाः कलंको दत्तः, सा मदीया प्राणप्रिया कमलादी कमलवती किं करिष्यति ! किमहं करोमि! तयाविना सर्वमपि शून्यं. यतः
सति प्रदीपे सत्यग्नौ । सत्सु नानामणीषु च ॥ विनैकां मृगशावादी । तमोनूतमिदं जगत् ॥१॥ को जानाति ! कदा मम वल्लना मिलिष्यति! कयमहमधन्यो लोकानां मुखं द. शयिता! धिगस्तुमां, मम हृदयं कथं न स्फुटितं येन हृदयेनैवं चिंतितं. सा मदीया जिह्वा कथं शतखंडवती न जाता ययैवमनुज्ञा दत्ता. इदमकार्यं कुर्वतो मम शिरसि ब्रह्मा कयं त्रुटित्वा न पतितं ? अहो अविमृश्य कृतं कार्य महाऽनयते! यउक्तं नीतिशास्त्रेऽपि-स- हसा विदधीत न क्रिया-मविवेकः परमापदां पदं ॥ वृणुते हि विमृश्यकारिणं । गुणलुब्धाः स्वयमेव संपदः ॥ १॥ अतः किमनेन शोचनेन, परमित केन कृतमिति चिंतयता तेन गं
॥२३॥
For Private And Personal