________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
॥१७॥
करमोचनावसरे बहुगजाश्वादि दत्तं. रणसिंहोऽपि बहुकालं तत्रैव स्थितः, कियता कालेन क- मालाटी, मलवती गृहीत्वा स्वदेशंप्रत्यायातो, हान्यां कनकवतीकमलवतीभ्यां साई विषयमुपभुंजानः सुखेन कालमतिवाहयतिस्म. एतदवसरे सोमापुर्या पुरुषोत्तमनृपपुत्री रत्नवती नानी चिंतयति, अहो मम पाणिग्रहणार्थमागबन् रणसिंहकुमारोतरा कमलवती परिणीतवान्. तया) साईमतीवलुब्धो मम वल्लन्नो मां विस्मारितवान; अत्र मउछाहार्थ नाडायाति. कमलवतीविना नान्यत्किमपि पश्यति; अतस्तया किमपि कार्मणं कृतं विलोक्यते. कमलवतीस्नेहेनातीवनिर्गुतं नर्तृहृदयं दृश्यते, तेन च मत्स्नेहावकाशो न जायते; परमहं तर्हि सत्या यदि केनाप्युपायेन तविरसि कलंकं दत्वा नर्तृचित्तं समुत्तारयामीति संचिंत्य स्वकीयमातुरग्रे कश्रितं, तयापि यथेष्टं कुर्वित्यनुज्ञा दत्ता. पश्चात्तत्रैका गंधमूषिका नानी दुष्टा कार्मणवशीकरणकर्मकुशला काचित्स्त्री वर्त्तते, तामाहूय रत्नवती कथयतिस्म; मातर्मदीयमेकं कार्यं कुरु?
॥१७॥ यणसिंदकुमारः कमलवत्यामतीवलीनो वर्तते, तत्तथा कुरु? यङ्गनां कलंकदूषितां कुमारो गृहानिष्कासयति।
For Private And Personal