________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
मालाटी.
॥१५५॥
हीतो विवदतां तेषां पक्षिणां मुखात्पतितं तजोहरणं तनगिन्याः पुरंदरयशायाः प्रांगणे; त- यापि रजोहरणमुपलहितं. लोकमुखात्सर्वोऽपि वृनांतो ज्ञातः, तं श्रुत्वा पुरंदरयशा राजानमुद्दिश्याह आः पाप पुरात्मन दुर्नीतिकारक किमेतत्कुकर्म कृतं ? त्वया साधुहत्यात्मकं पापं कृतं, यहहत्यासप्तमं कुलं, महतीयं साधुहत्या, इति वारंवारं तं निर्जसितवर्त! संसारपरामुख सा संजातवैराग्या जाता, शासनदेवतया च परिवारसहिता श्रीमुनिसुव्रतसमीपे स. मानीता, दीक्षां गृहीत्वात्मार्थ साधयामास. तस्मिन्नवसरेऽग्निकुमारनिकाये समुत्पन्नेन स्कं. दकाचार्यजीवेनाऽवधिज्ञानेन विलोकितं, संजातक्रोधेन च तेन जस्मीकृतः पालकसहितो दंडकनृपदेशः, ततो जातं दंगकारण्यं लोकप्रसिहं. तदेवमेते स्कंदकशिष्याः प्राणांतकारिण्यपि पालके न क्रुक्षः, ततस्तस्मिन्नेव नवे सर्वेऽपि मुक्तिं गताः, अतः सिहतेऽपि 'वसमसारं खु सामस्म' मित्युक्तं. यदुक्तं-कमाखमं करे यस्य । पुर्जनः किं करिष्यति ॥ अतृणे प. तितो वह्निः । स्वयमेवोपशाम्यति ॥१॥ तत ईदृशमेव दमागुणधारणं साधूनां मुक्तिनिबंधनमित्युपनयः ॥ इति स्कंदकाचार्यशिष्यकथा ।
॥१५॥
For Private And Personal