________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नुपदेश-
मालाटी,
॥१०॥
ममैनं राजकुमारं प्रियत्वेन समर्पय? तदा यदेणोक्तं नो वत्से समर्पितोऽयं मया, भुंदवा- नेन साई यथेप्सितं सांसारिकं सुखं ? एतत् श्रुत्वाऽानंदमापन्ना कमलवती सेवकांतिके तनामादि परिपृत्य स्नेहदृष्ट्या पुनः पुनः सन्मुखमवलोकयंती स्वगृहमागता. कुमारोऽपि स्वकीयपटावासे समागतः, अथ हितीयदिवसेऽपि तथैव कमलवती यक्षपूजार्थमागता, कुमारे णापि दृष्टा; पूजां विधाय मधुरस्वरेण सम्यग् वीणावादनपूर्वकं तदने संगीतकं कृत्वा गृहं गता; कुमारोऽपि तदीयं गानमथ वीणास्वरं श्रुत्वा मनसि चिंतयतिस्म, यद्येनां विवाहयामि तदा मे सफलं जन्म, नो चेकिमनेन जीवनेनेति तज्ञगवाहितः स्थितः, तदा पुरुषोत्तमनृपप्रधानैरागत्य विज्ञप्तं, स्वामिन् कोऽत्र विलंबहेतुः? कुमारेणोक्तं ममात्र किंचित्कार्यमस्ति, यूयमग्रतो गवत ? अहमपि पृष्टतः शीघ्रमागवामि. इति श्रुत्वा ते प्रधानपुरुषाः सोमापुयाँ पुरुषोत्तमनृपसमीपे गताः, कथितं च कुमारागमनस्वरूपं, रणसिंहकुमारस्तु कमलवतीरूप- मोहितस्तत्रैव स्थितः।
एतदवसरे एको नीमनूपपुत्रोऽपि कनकसेननृपसेवां करोति. सोऽपि कमलवतीरूपं दृ
॥१०॥
For Private And Personal