________________
Shri Mahavir Jain Aradhana Kendra
श्री तिलक मञ्जरी
॥
१ ॥
অঅ6
www.kobatirth.org
44
Acharya Shri Kailassagarsuri Gyanmandir
अस्त्ययोध्यापुरीशुभ्रसौधपद्धतिभियया । सौन्दयनिर्जिता नित्यं माहेन्द्रीपूर्विहस्यते ॥ ६ ॥ तस्यामग्विधूवक्त्रचन्द्राकालघनोदयः । मेघवाहननामाभूदेकच्छत्रमहीपतिः. ॥ ७ ॥ लावण्यसुधया सृष्टभप्लुष्टमनोभवा । बभूव भूपतेस्तस्य प्रेयसी मदिरावती ॥ ८ ॥ सम्पन्नेऽपि यथाकामं विषयग्रामजे सुखे । न तयोः सन्ततिर्जज्ञे दूनमेतावता मनः ॥ ९ ॥ आरूढौ भद्रशालाख्यमथ प्रासादमेकदा, । अपाच्या मुनिमायान्तं वियता ताव१श्यताम् ॥ १० ॥ उपवीतजटाजूटवल्कलाषाढधारिणम् । द्योतयन्तं दिवं दीया विद्याधरकुलोद्भवम् ॥ ११ ॥ प्रत्युद्गम्य कृतार्घेण राज्ञा दत्ते स्वविष्टरे । निविष्टो मदिरावत्याप्य नीते. रचिताञ्जलौ ॥ १२ ॥ राजन्यथ सुखासीने सर्वस्वमपि यच्छति । निःस्पृहस्तं निराकृत्य मुनिर्वक्ति स्म भूपतिम् ।। १३ ।। " रमणीया पुरी केयं ? वा पुण्याकृतिर्भवान् ? । किं ते गोत्रमियं का वा ? ग्लानिर्वा भवतः कथम् ? || १४ || अस्याः कपोलपाली च किमित्यश्रुजलाविला । हिमक्लिष्टतमीकान्तमण्डलाकृतिमश्नुते १ ।। १५ ।। वाष्पोष्पधूसरच्छायो दधात्यस्याः कुतोऽधरः । वह्निज्वालादर श्लिष्टलवलीपल्लवश्रियम् ? ।। १६ ।। त्रिवस्थिता हैमी महीपतिमहानसे । कथं वानुकलं धूमध्यामतामवलम्बते ? " ॥ १७ ॥ दशनांशुपयःपूरैर्वदनस्थां सरस्वतीम् । स्नपयन्नथ भूपालः प्रत्युवाच तपोधनम् ।। १८ ॥
पुर्ययोध्याभिधा मूर्द्धचूडारत्नमियं भुवः । कियद्भारतभोक्ताहमैक्ष्वाको मेघवाहनः ॥ १९ ॥ प्रेमपात्रं ममेयं च कलत्रं मदिरावती । कायविच्छायता हेतुरेकैव निरपत्यता ॥ २० ॥
For Private and Personal Use Only
कथा सार.
॥ १ ॥