________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अहम्
श्वेताम्बरश्रावकपण्डितश्रीलक्ष्मीधररचितः श्रीतिलकमञ्जरीकथासारः॥
वन्दारुवासवोत्सत्रंसिमन्दारदामभिः । त्रिसन्ध्यरचिताभ्यर्ची वीरपादद्वयीं नुमः ॥१॥ सद्वर्णा विबुधस्तुत्या सालङ्कारा लसत्पदा । धापि जायतां देवी प्रसन्ना मे सरस्वती ॥२॥ न स्तुमः सज्जनं, नैव निन्दामो दुर्जनं जनम् । नैवमेव स्वरूपं तौ सुधाक्ष्वेडाविवोज्झतः ॥ ३ ॥ इदं तिलकमञ्जर्याः कथासङ्ग्रहकारण[क]म् । क्रियते सारमस्माभिरल्पाल्पन्यस्तवर्णनम् ॥ ४॥ अस्मिन् दृब्धास्त एवार्थास्त एव ननु वाचकाः ।-गुम्फविज्ञानमात्रेण मम तुष्यन्तु सज्जनाः ॥ ५॥
******
For Private and Personal Use Only