________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ सुखावतीव्यूहः ॥
___43 तस्यां खलु पुनरानंद सुखावत्यां लोकधातौ पूर्वाह्नकालसमये प्रत्युपस्थिते समंताच्चतुर्दिशमाकुलाः समाकुला वायवो वांति । तेषां रानवृक्षाणां चित्रान्दर्शनीयान्नानावर्णाननेकवृंतांनानासुरभिदिव्यगंधपरिवासिताक्षोभयंति संक्षोभयंतीरयंति समीरयंति यतो बहूनि पुष्पशतानि तस्यां रत्नमय्यां महापृथिव्यां प्रपतंति मनोज्ञगंधानि दर्शनीयानि । तैश्च पुष्पैस्तबुद्धक्षेत्र समंतात्सप्तपौरुषं संस्कृतरूपं भवति । तद्यथापि नाम पुरुषः कुशलः पृथिव्यां पुष्पसंस्तरं संस्तृणुयादुभाभ्यां पाणिभ्यां समं रचयेत्सुचित्रं दर्शनीयं एवमेव तबुद्धक्षेचं तैः पुष्पैनीनागंधवणैः समंतात्सप्तपौरुषं स्फुटं भवति । तानि च पुष्पजातानि मृदूनि काचिलिंदिकसुखसंस्पर्शान्यौपम्यमात्रेण यानि निक्षिप्ते पादे चतुरंगुलमवनमंति उत्क्षिप्ते पादे चतुरंगुलमेवोन्नमंति ॥ निर्गते पुनः पूर्वाह्नकालसमये तानि पुष्पाणि निरवशेषमंतीयते । अथ तबुद्धक्षेत्र विविक्तं रम्यं शुभं भवत्यपरिक्लिष्टैः पूर्वपुष्पैः। ततः पुनरपि समंताच्चतुर्दिशं वायवो वांति ये पूर्ववदभिनवानि पुष्पाण्यभिप्रकिरंति । यथा पूर्वाह' एवं मध्याहूकालसमये संध्यायां रायाः प्रथमे यामे मध्यमे यामे पश्चिमे यामे । तैश्च
__ 1 पूर्वीह A. B. C. P. प्रत्युत्पस्थिते A. P. प्रत्युत्पष्ठिते B. प्रत्युपत्युत्पस्थित C. ३ रत्नवृक्षां चित्रां A. C. रनवृक्षाणां चित्रां B. रत्नवृक्षानां चित्रां P. * वृधान A.C. P. कृषान् B. वृत, which has been substituted conjecturally, is generally neuter. The text may have been originally ते व रत्नवृषान् and अनेकवीन.
न्योपम्य A. B.C. नोपम्य P. पूर्वाह्न A. B. C. P. पूर्वाहे A. B. C. P. रात्र्याः A. C.
TUTE A. RAUTT and way, is generally
1
B.
G2
For Private and Personal Use Only