________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
42
॥ सुखावतीव्यूहः ॥ णि जालानि मुक्ताजालानि सर्वरत्नजालानि स्वर्णरत्नकिंकिणीजालानि तथारूपैराभरणैरनेकरत्नशतसहस्रप्रत्युनः स्फुटं तबुद्धक्षेत्रं पश्यंति यदिदमाभरणवृक्षावसक्तैस्तैश्चाभरणैरलंकृतमात्मानं संजानंति ॥ ते यादृशं विमानमाकांक्षति यद्वर्णलिंगसंस्थानं यावदारोहपरिणाहं नानारत्नमयनियूहशतसहस्रसमलं. कृतं नानादिव्यपुष्पंसंस्तीर्ण चित्रोपधानविन्यस्तपर्यकं तादृशमेव विमानं तेषां पुरतः प्रादुर्भवति । तेषु मनोनितेषु विमानेषु सप्तसप्ताप्सरसहस्रपरिवृताः' पुरस्कृता विहरंति क्रीडति रमते परिचारयंति ॥१९॥
न च तत्र लोकधातौ देवानां वा मनुष्याणां वा नानात्वमस्त्यन्यत्र संवृतिव्यवहारेण देवमनुष्थाविति संख्यां गच्छंति ॥ तद्यथानंदराज्ञश्चक्रवर्तिनःपुरतो मनुष्यहीनो मनुष्यप्रेतको न भासते न तपते न विरोचते न च भवति विशारदो न प्रभास्वरः एवमेव देवानां परनिर्मितवशवर्तिनां पुरतः शक्रो देवानामिंद्रो न भासते न तपते न विरोचते यदिदमुद्यानविमानवस्त्राभरणैरधिपत्येना वा "प्रातिहार्येण वैश्वर्येण वानंद स खलु धर्माभिसमयेन धर्मपरिभोगेण वा । तवानंद यथा देवाः परिनिर्मितवशवर्तिन एवं सुखावत्यां लोकधातौ मनुष्या द्रष्टव्याः ॥२०॥
1 यादृश A. P. यावदश B. यादृशं . दुःष्प A. दुष्प B. C. दुःव्य P. ३ निर्वृताः A. B. C. वृताः P. प्रेतको A. B. C. P. Bodhiruki gives the transliteration in Pan-tho-kia, i.e. पंडक, which would be better.
From न च भवति to भासते left out in P. प्रतिहार्येण A. P. प्रीतिभार्येण B. प्रातिहार्पण C.
For Private and Personal Use Only