SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 35 ॥ सुखावतीव्यूहः ॥ चिदानंद वृक्षाणां वैडूर्यमयाणि मूलानि स्फटिकमयाः स्कंधा मुसारगल्वमया विटपा लोहितमुक्तामयाः शाखा अश्मगर्भमयाणि पत्त्राणि सुवर्णमयानि पुष्पाणि रूपमयाणि फलानि । केषांचिदानंद वृक्षाणां स्फटिकमयानि मूलानि मुसारगल्वमयाः स्कंधा लोहितमुक्तामया विटपा अश्मगर्भमयाः शाखाः सुवर्णमयानि पत्त्राणि रूप्यमयाणि पुष्पाणि वैडूर्यमयाणि फलानि। केषांचिदानंद वृक्षाणां मुसारगत्वमयानि मूलानि' लोहितमुक्तामयाः स्कंधा अश्मगर्भमया विटपाः सुवर्णमयाः शाखा रूप्यमयाणि पत्त्राणि वैडूर्यमयाणि पुष्पाणि स्फटिकमयानि फलानि । केषांचिदानंद वृक्षाणां लोहितमुक्तामयानि मूलान्यश्मगर्भमयाः 'स्कंधाः सुवर्णमया विटपा रूप्यमयाः शाखा वैडूर्यमयाणि पत्त्राणि स्फटिकमयानि पुष्पाणि मुसारगल्लमयानि फलानि। केषांचिदानंद वृक्षाणामश्मगर्भमयाणि मूलानि सुवर्णमयाः स्कंधा रूप्यमया विटपा वैडूर्यमयाः शाखाः स्फटिकमयानि पन्त्राणि मुसारगल्वमयानि पुष्पाणि लोहितमुक्तामयानि फलानि ॥ केषांचिदानंद वृक्षाणां सप्तरत्नमयानि मूलानि सप्तरत्नमयाः स्कंधाः सप्तरत्नमया विटपाः सप्तरत्नमयाः शाखाः सप्तरत्नमयानि पत्त्राणि सप्तरत्नमयानि पुष्पाणि सप्तरत्नमयानि फलानि ॥ सर्वेषां चानंद तेषां वृक्षाणां मूलस्कंधविटपशाखापत्रपुष्पफलानि सुखसंस्पर्शनि सुगंधीनि। वातेन प्रेरितेन च 1 मूलानि deest in A. B. From स्कंधा to अश्मगर्भमया deest in B. समरत्नमयानि मूलानि deest in P. पातेन रितेन A.C. P. पातेन प्रेरितेन B. प्रेरिताना? For Private and Personal Use Only
SR No.020817
Book TitleText Documents And Extracts Chiefly From Manuscripts in Bodleian Vol 01 Part 02
Original Sutra AuthorN/A
AuthorMax Muller, Bunyiu Nanjio
PublisherOxford
Publication Year1883
Total Pages131
LanguageEnglish, Sanskrit
ClassificationBook_English & Book_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy